शनि कवचको पाठ !

सनातन धर्ममा शनिबार शनिदेवको विशेष पूजा गरिन्छ । शनिदेवलाई न्यायका देवता र कर्मदाता पनि भनिन्छ। शनिदेवले राम्रो कर्म गर्नेलाइ राम्रो फल दिन्छन भने नराम्रो काम गर्नेलाई कडा सजाय दिन्छन् । ज्योतिषीहरुका अनुसार अहिले कुम्भ, मकर र मीन राशिका मानिसहरु साढे सात शनिबाट पीडित छन् । योसँगै शनिको अढैया कर्कट र वृश्चिक राशिमा चलिरहेको छ । शनिको नराम्रो नजरका कारण मानिसको जीवनमा अस्थिरता उत्पन्न हुन्छ ।
यस्तो अवस्थामा मानसिक, शारीरिक तथा आर्थिक समस्याको सामना गर्नुपर्ने हुन्छ। शनिदेवको अशुभ प्रभावबाट जोगिन हरेक शनिबार शनि मन्दिर गएर शनिदेवको पूजा गर्नुपर्छ । शनिदेवको पूजाका क्रममा शनि कवच पनि पढ्नुपर्छ ।
श्री शनि कवच
अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ॥
अनुष्टुप् छन्दः ॥ शनैश्चरो देवता ॥ शीं शक्तिः ॥
शूं कीलकम् ॥ शनैश्चरप्रीत्यर्थं जपे विनियोगः ॥
निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ॥
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ॥
ब्रह्मोवाच ॥
श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः ।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः ॥
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा ॥
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।
ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः ।
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः ॥
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोक्पि वा ।
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठतो नित्यं न पीडा जायते क्वचित् ॥
इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा ।
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा ।
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः ॥
प्रतिक्रिया